Sukta 9.81
प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः । दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः ॥
प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं॑ सु॒पेश॑सः । द॒ध्ना यदी॒मुन्नी॑ता य॒शसा॒ गवां॑ दा॒नाय॒ शूर॑मु॒दम॑न्दिषुः सु॒ताः ॥
prá sómasya pavamānasyórmaya índrasya yanti jaṭháraṃ su-péśasaḥ | dadhnā́ yad ī́m unnī́tā yaśásā gávāṃ dānā́ya śū́ram úd amandiṣuḥ sutā́ḥ ||
Forward surge the waves of Soma in his purification; fair-formed, they go to Indra’s belly. When uplifted with curd (with the thickened richness), pressed out, they exhilarate the hero for the giving of the Rays of Light—by glory they raise him upward.
प्र । सोम॑स्य । पव॑मानस्य । ऊ॒र्मयः॑ । इन्द्र॑स्य । य॒न्ति॒ । ज॒ठर॑म् । सु॒ऽपेश॑सः । द॒ध्ना । यत् । ई॒म् । उत्ऽनी॑ताः । य॒शसा॑ । गवा॑म् । दा॒नाय॑ । शूर॑म् । उ॒त्ऽअम॑न्दिषुः । सु॒ताः ॥प्र । सोमस्य । पवमानस्य । ऊर्मयः । इन्द्रस्य । यन्ति । जठरम् । सुपेशसः । दध्ना । यत् । ईम् । उत्नीताः । यशसा । गवाम् । दानाय । शूरम् । उत्अमन्दिषुः । सुताः ॥pra | somasya | pavamānasya | ūrmayaḥ | indrasya | yanti | jaṭharam | su-peśasaḥ | dadhnā | yat | īm | ut-nītāḥ | yaśasā | gavām | dānāya | śūram | ut-amandiṣuḥ | sutāḥ