Sukta 9.80
तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः । नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान्देवाँ आ पवस्वा सहस्रजित् ॥
तं त्वा॑ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नर॑: स॒हस्र॑धारं दुहते॒ दश॒ क्षिप॑: । नृभि॑: सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वा॑न्दे॒वाँ आ प॑वस्वा सहस्रजित् ॥
táṃ tvā devébhyo mádhumattamaṃ náraḥ sahásra-dhāraṃ duhate dáśa kṣípaḥ | nṛ́bhiḥ soma prácyuto grā́vabhiḥ sutó viśvā́n devā́ṃ ā́ pavasvā sahasra-jit ||
Thee, most honeyed for the gods, the strong ones draw out—thousand-streamed—from the ten fingers. O Soma, pressed by men with the stones, released into flow, purify thyself toward all the gods, thou conqueror of a thousand resistances.
तम् । त्वा॒ । दे॒वेभ्यः॑ । मधु॑मत्ऽतमम् । नरः॑ । स॒हस्र॑ऽधारम् । दु॒ह॒ते॒ । दश॑ । क्षिपः॑ । नृऽभिः॑ । सो॒म॒ । प्रऽच्यु॑तः । ग्राव॑ऽभिः । सु॒तः । विश्वा॑न् । दे॒वान् । आ । प॒व॒स्व॒ । स॒ह॒स्र॒ऽजि॒त् ॥तम् । त्वा । देवेभ्यः । मधुमत्तमम् । नरः । सहस्रधारम् । दुहते । दश । क्षिपः । नृभिः । सोम । प्रच्युतः । ग्रावभिः । सुतः । विश्वान् । देवान् । आ । पवस्व । सहस्रजित् ॥tam | tvā | devebhyaḥ | madhumat-tamam | naraḥ | sahasra-dhāram | duhate | daśa | kṣipaḥ | nṛ-bhiḥ | soma | pra-cyutaḥ | grāva-bhiḥ | sutaḥ | viśvān | devān | ā | pavasva | sahasra-jit