Sukta 9.80
तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभं दश क्षिपः । इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि ॥
तं त्वा॑ ह॒स्तिनो॒ मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिप॑: । इन्द्रं॑ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥
táṃ tvā hastíno mádhumantam ádribhir duhánty apsú vṛṣabháṃ dáśa kṣípaḥ | índraṃ soma mādayan daívyam jánaṃ síndhor ivormíḥ pavamāno arṣasi ||
Thee, full of sweetness, the skilful hands draw out with the stones—within the waters—the bull from the ten fingers. O Soma, making Indra glad, gladdening the divine people within us, thou rushest purified like a wave of the river.
तम् । त्वा॒ । ह॒स्तिनः॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः । दु॒हन्ति॑ । अ॒प्ऽसु । वृ॒ष॒भम् । दश॑ । क्षिपः॑ । इन्द्र॑म् । सो॒म॒ । मा॒दय॑न् । दैव्य॑म् । जन॑म् । सिन्धोः॑ऽइव । ऊ॒र्मिः । पव॑मानः । अ॒र्ष॒सि॒ ॥तम् । त्वा । हस्तिनः । मधुमन्तम् । अद्रिभिः । दुहन्ति । अप्सु । वृषभम् । दश । क्षिपः । इन्द्रम् । सोम । मादयन् । दैव्यम् । जनम् । सिन्धोःइव । ऊर्मिः । पवमानः । अर्षसि ॥tam | tvā | hastinaḥ | madhu-mantam | adri-bhiḥ | duhanti | ap-su | vṛṣabham | daśa | kṣipaḥ | indram | soma | mādayan | daivyam | janam | sindhoḥ-iva | ūrmiḥ | pavamānaḥ | arṣasi