Sukta 9.80
एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः । प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्यः स्यन्दते वृषा ॥
एन्द्र॑स्य कु॒क्षा प॑वते म॒दिन्त॑म॒ ऊर्जं॒ वसा॑न॒: श्रव॑से सुम॒ङ्गल॑: । प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्य॑: स्यन्दते॒ वृषा॑ ॥
ā́ índrasya kukṣā́ pavate madíntama ūrjáṃ vásānaḥ śrávase su-maṅgalaḥ | pratyáṅ sá viśvā́ bhúvanābhi paprathe krīḷán hárir átyaḥ syandate vṛ́ṣā ||
Into Indra’s belly the most rapturous Soma flows, clothing himself with energy, auspicious for the growth of the soul’s fame and force. Turning inward he spreads through all the worlds of our being; playing, the tawny steed rushes on—this bull-current pours forth.
आ । इन्द्र॑स्य । कु॒क्षा । प॒व॒ते॒ । म॒दिन्ऽत॑मः । ऊर्ज॑म् । वसा॑नः । श्रव॑से । सु॒ऽम॒ङ्गलः॑ । प्र॒त्यङ् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒प्र॒थे॒ । क्रीळ॑न् । हरिः॑ । अत्यः॑ । स्य॒न्द॒ते॒ । वृषा॑ ॥आ । इन्द्रस्य । कुक्षा । पवते । मदिन्तमः । ऊर्जम् । वसानः । श्रवसे । सुमङ्गलः । प्रत्यङ् । सः । विश्वा । भुवना । अभि । पप्रथे । क्रीळन् । हरिः । अत्यः । स्यन्दते । वृषा ॥ā | indrasya | kukṣā | pavate | madin-tamaḥ | ūrjam | vasānaḥ | śravase | su-maṅgalaḥ | pratyaṅ | saḥ | viśvā | bhuvanā | abhi | paprathe | krīḷan | hariḥ | atyaḥ | syandate | vṛṣā