Sukta 9.80
यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान् । मघोनामायुः प्रतिरन्महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥
यं त्वा॑ वाजिन्न॒घ्न्या अ॒भ्यनू॑ष॒तायो॑हतं॒ योनि॒मा रो॑हसि द्यु॒मान् । म॒घोना॒मायु॑: प्रति॒रन्महि॒ श्रव॒ इन्द्रा॑य सोम पवसे॒ वृषा॒ मद॑: ॥
yáṃ tvā vājinn aghnyā́ abhyánūṣatáyo-hataṃ yónim ā́ rohasi dyumā́n | maghónām ā́yuḥ pratirán máhi śráva índrāya soma pavase vṛ́ṣā mádaḥ ||
O Soma, forceful and victorious, the luminous powers (the unharmable Cows of Light) have chanted to thee; thou ascendest the iron-struck womb (the firm vessel of formation), shining with radiance. Repelling what diminishes the life of the givers, thou becomest vast fame and strength for Indra; thou flowest as the Bull of ecstasy, the rapturous energy.
यम् । त्वा॒ । वा॒जि॒न् । अ॒घ्न्याः । अ॒भि । अनू॑षत । अयः॒ऽहतम् । योनि॑म् । आ । रो॒ह॒सि॒ । द्यु॒ऽमान् । म॒घोना॑म् । आयुः॑ । प्र॒ऽति॒रत् । महि॑ । श्रव॑ । इन्द्रा॑य । सो॒म॒ । प॒व॒से॒ । वृषा॑ । मदः॑ ॥यम् । त्वा । वाजिन् । अघ्न्याः । अभि । अनूषत । अयःहतम् । योनिम् । आ । रोहसि । द्युमान् । मघोनाम् । आयुः । प्रतिरत् । महि । श्रव । इन्द्राय । सोम । पवसे । वृषा । मदः ॥yam | tvā | vājin | aghnyāḥ | abhi | anūṣatā | ayaḥ-hatam | yonim | ā | rohasi | dyu-mān | maghonām | āyuḥ | pra-tirat | mahi | śrava | indrāya | soma | pavase | vṛṣā | madaḥ