Sukta 9.8
एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । वर्धन्तो अस्य वीर्यम् ॥
ए॒ते सोमा॑ अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् । वर्ध॑न्तो अस्य वी॒र्य॑म् ॥
eté sómā abhí priyám índrasya kā́mam akṣaran | várdhanto asya vīryàm ||
These Soma-streams have flowed toward what is dear—the desire of Indra—enhancing and increasing his hero-power within us.
ए॒ते । सोमाः॑ । अ॒भि । प्रि॒यम् । इन्द्र॑स्य । काम॑म् । अ॒क्ष॒र॒न् । वर्ध॑न्तः । अ॒स्य॒ । वी॒र्य॑म् ॥एते । सोमाः । अभि । प्रियम् । इन्द्रस्य । कामम् । अक्षरन् । वर्धन्तः । अस्य । वीर्यम् ॥ete | somāḥ | abhi | priyam | indrasya | kāmam | akṣaran | vardhantaḥ | asya | vīryam