Sukta 9.78
एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि । जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि ॥
ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वन्द्रवि॑णान्यर्षसि । ज॒हि शत्रु॑मन्ति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥
etā́ni soma pávamāno asma-yúḥ satyā́ni kṛṇván dráviṇāny arṣasi | jahí śátrum antiké dūráke ca yá urvī́ṃ gavyū́tim ábhayaṃ ca naḥ kṛdhi ||
These things, O Soma, as you purify yourself, desiring us, you cause to become true and you make the riches flow. Smite the enemy, near and far; and make for us a wide pasture of rays and a fearless state.
ए॒तानि॑ । सो॒म॒ । पव॑मानः । अ॒स्म॒ऽयुः । स॒त्यानि॑ । कृ॒ण्वन् । द्रवि॑णानि । अ॒र्ष॒सि॒ । ज॒हि । शत्रु॑म् । अ॒न्ति॒के । दू॒र॒के । च॒ । यः । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । च॒ नः॒ । कृ॒धि॒ ॥एतानि । सोम । पवमानः । अस्मयुः । सत्यानि । कृण्वन् । द्रविणानि । अर्षसि । जहि । शत्रुम् । अन्तिके । दूरके । च । यः । उर्वीम् । गव्यूतिम् । अभयम् । च नः । कृधि ॥etāni | soma | pavamānaḥ | asma-yuḥ | satyāni | kṛṇvan | draviṇāni | arṣasi | jahi | śatrum | antike | dūrake | ca | yaḥ | urvīm | gavyūtim | abhayam | ca | naḥ | kṛdhi