Sukta 9.78
गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् । यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥
गो॒जिन्न॒: सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् । यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव॑म् ॥
go-jín naḥ sómo ratha-jíd hiraṇyá-jít svaḥ-jíd abjít pavate sahasra-jít | yáṃ devā́saś cakriré pītáye mádaṃ svā́diṣṭhaṃ drápsam aruṇáṃ mayo-bhúvam ||
Our Soma flows as a winner of the Rays, a winner of the chariot of progress, a winner of the golden plenitudes, a winner of the luminous world, a winner of the waters, a winner of a thousand powers. The gods have fashioned him for drinking as ecstasy—the sweetest drop, ruddy with dawn-force, bringing delight and well-being.
गो॒ऽजित् । नः॒ । सोमः॑ । र॒थ॒ऽजित् । हि॒र॒ण्य॒ऽजित् । स्वः॒ऽजित् । अ॒प्ऽजित् । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । यम् । दे॒वासः॑ । च॒क्रि॒रे । पी॒तये॑ । मद॑म् । स्वादि॑ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒ऽभुव॑म् ॥गोजित् । नः । सोमः । रथजित् । हिरण्यजित् । स्वःजित् । अप्जित् । पवते । सहस्रजित् । यम् । देवासः । चक्रिरे । पीतये । मदम् । स्वादिष्ठम् । द्रप्सम् । अरुणम् । मयःभुवम् ॥go-jit | naḥ | somaḥ | ratha-jit | hiraṇya-jit | svaḥ-jit | ap-jit | pavate | sahasra-jit | yam | devāsaḥ | cakrire | pītaye | madam | svādiṣṭham | drapsam | aruṇam | mayaḥ-bhuvam