Sukta 9.78
इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने । पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः ॥
इन्द्रा॑य सोम॒ परि॑ षिच्यसे॒ नृभि॑र्नृ॒चक्षा॑ ऊ॒र्मिः क॒विर॑ज्यसे॒ वने॑ । पू॒र्वीर्हि ते॑ स्रु॒तय॒: सन्ति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षद॑: ॥
índrāya soma pári ṣicyase nṛ́bhir nṛ-cákṣā ūŕmiḥ kavír ajyase vánē | pūrvī́r hí te srutáyaḥ sánti yā́tave sahásram áśvā háryaś camū-sádaḥ ||
For Indra, O Soma, you are poured all around by the human powers; a wave with the seeing of men, a seer, you are anointed in the wood (the pressing-place). Many are your ancient currents for the journey; a thousand are your bright steeds, seated in the offering-bowl, carrying the force onward.
इन्द्रा॑य । सो॒म॒ । परि॑ । सि॒च्य॒से॒ । नृऽभिः॑ । नृ॒ऽचक्षाः॑ । ऊ॒र्मिः । क॒विः । अ॒ज्य॒से॒ । वने॑ । पू॒र्वीः । हि । ते॒ । स्रु॒तयः॑ । सन्ति॑ । यात॑वे । स॒हस्र॑म् । अश्वाः॑ । हर॑यः । च॒मू॒ऽसदः॑ ॥इन्द्राय । सोम । परि । सिच्यसे । नृभिः । नृचक्षाः । ऊर्मिः । कविः । अज्यसे । वने । पूर्वीः । हि । ते । स्रुतयः । सन्ति । यातवे । सहस्रम् । अश्वाः । हरयः । चमूसदः ॥indrāya | soma | pari | sicyase | nṛ-bhiḥ | nṛ-cakṣāḥ | ūrmiḥ | kaviḥ | ajyase | vane | pūrvīḥ | hi | te | srutayaḥ | santi | yātave | sahasram | aśvāḥ | harayaḥ | camū-sadaḥ