Sukta 9.78
प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति । गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् ॥
प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति । गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ॥
prá rājā vā́caṃ janáyann asisyadat apó vásāno abhí gā́ iyakṣati | gṛbhṇā́ti riprám avír asya tā́nvā śuddhó devā́nām úpa yāti niḥkṛtám ||
Forward moves the King, bringing forth the Word; he rushes on, clothed in the Waters, and drives toward the Rays. He seizes the stain; as the Sheep (the purifier) with his body, he becomes pure and approaches the gods’ prepared offering-place.
प्र । राजा॑ । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् । अ॒पः । वसा॑नः । अ॒भि । गाः । इ॒य॒क्ष॒ति॒ । गृ॒भ्णाति॑ । रि॒प्रम् । अविः॑ । अ॒स्य॒ । तान्वा॑ । शु॒द्धः । दे॒वाना॑म् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥प्र । राजा । वाचम् । जनयन् । असिस्यदत् । अपः । वसानः । अभि । गाः । इयक्षति । गृभ्णाति । रिप्रम् । अविः । अस्य । तान्वा । शुद्धः । देवानाम् । उप । याति । निःकृतम् ॥pra | rājā | vācam | janayan | asisyadat | apaḥ | vasānaḥ | abhi | gāḥ | iyakṣati | gṛbhṇāti | ripram | aviḥ | asya | tānvā | śuddhaḥ | devānām | upa | yāti | niḥ-kṛtam