Sukta 9.76
विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत् । यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥
विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् । यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥
víśvasya rājā pavate svàr-dṛśaḥ ṛtásya dhītím ṛṣiṣā́ḷ avīvaśat | yáḥ sū́ryasyā́sireṇa mṛ́jyate pitā́ matīnā́m ásamaṣṭa-kāvyaḥ ||
The king of all streams in purification, beholding the luminous world; he awakens the inspired thought of the Truth, the seer-smiting (breaker of false seerhood). He who is cleansed by the Sun’s sharp edge becomes the Father of the inspired thinkings, the poet of unequalled synthesis.
विश्व॑स्य । राजा॑ । प॒व॒ते॒ । स्वः॒ऽदृशः॑ । ऋ॒तस्य॑ । धी॒तिम् । ऋ॒षि॒षाट् । अ॒वी॒व॒श॒त् । यः । सूर्य॑स्य । असि॑रेण । मृ॒ज्यते॑ । पि॒ता । म॒ती॒नाम् । अस॑मष्टऽकाव्यः ॥विश्वस्य । राजा । पवते । स्वःदृशः । ऋतस्य । धीतिम् । ऋषिषाट् । अवीवशत् । यः । सूर्यस्य । असिरेण । मृज्यते । पिता । मतीनाम् । असमष्टकाव्यः ॥viśvasya | rājā | pavate | svaḥ-dṛśaḥ | ṛtasya | dhītim | ṛṣiṣāṭ | avīvaśat | yaḥ | sūryasya | asireṇa | mṛjyate | pitā | matīnām | asamaṣṭa-kāvyaḥ