Sukta 9.76
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश । प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजाँ उप मासि शश्वतः ॥
इन्द्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा॑ तवि॒ष्यमा॑णो ज॒ठरे॒ष्वा वि॑श । प्र ण॑: पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒ उप॑ मासि॒ शश्व॑तः ॥
índrasya soma pávamāna ūrmiṇā taviṣyámāṇo jaṭháreṣv ā́ víśa | prá naḥ pinva vidyúd abhréva ródasī dhiyā́ na vā́jāṃ úpa māsi śáśvataḥ ||
O Soma, as you purify yourself for Indra, enter with your surging wave into the inner bellies (receptacles), growing in power. Increase us—like lightning in the cloud the two worlds are awakened—come near with the plenitudes of force, with the thought, forever.
इन्द्र॑स्य । सो॒म॒ । पव॑मानः । ऊ॒र्मिणा॑ । त॒वि॒ष्यमा॑णः । ज॒ठरे॑षु । आ । वि॒श॒ । प्र । नः॒ । पि॒न्व॒ । वि॒ऽद्युत् । अ॒भ्राऽइ॑व । रोद॑सी॒ इति॑ । धि॒या । न । वाजा॑न् । उप॑ । मा॒सि॒ । शश्व॑तः ॥इन्द्रस्य । सोम । पवमानः । ऊर्मिणा । तविष्यमाणः । जठरेषु । आ । विश । प्र । नः । पिन्व । विद्युत् । अभ्राइव । रोदसी इति । धिया । न । वाजान् । उप । मासि । शश्वतः ॥indrasya | soma | pavamānaḥ | ūrmiṇā | taviṣyamāṇaḥ | jaṭhareṣu | ā | viśa | pra | naḥ | pinva | vi-dyut | abhrā-iva | rodasī iti | dhiyā | na | vājān | upa | māsi | śaśvataḥ