Sukta 9.76
शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु । इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥
शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्यो॒: स्व१॒॑: सिषा॑सन्रथि॒रो गवि॑ष्टिषु । इन्द्र॑स्य॒ शुष्म॑मी॒रय॑न्नप॒स्युभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते मनी॒षिभि॑: ॥
śū́ro na dhatte ā́yudhā gabhastyóḥ svàḥ sisāsan rathiró gaviṣṭíṣu | índrasya śúṣmam ī́rayan apasyúbhir índur hinvānáḥ ajyate manīṣíbhiḥ ||
Like a hero he takes up weapons in his grasp; desiring the luminous world, firm in the chariot-course in the quest for the Rays. Raising Indra’s dynamic might by works of will, the drop, driven onward, is anointed by the seers’ thought.
शूरः॑ । न । ध॒त्ते॒ । आयु॑धा । गभ॑स्त्योः । स्वरिति॑ स्वः॑ । सिसा॑सन् । र॒थि॒रः । गोऽइ॑ष्टिषु । इन्द्र॑स्य । शुष्म॑म् । ई॒रय॑न् । अ॒प॒स्युऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ । म॒नी॒षिऽभिः॑ ॥शूरः । न । धत्ते । आयुधा । गभस्त्योः । स्वरिति स्वः । सिसासन् । रथिरः । गोइष्टिषु । इन्द्रस्य । शुष्मम् । ईरयन् । अपस्युभिः । इन्दुः । हिन्वानः । अज्यते । मनीषिभिः ॥śūraḥ | na | dhatte | āyudhā | gabhastyoḥ | svar iti svaḥ | sisāsan | rathiraḥ | go-iṣṭiṣu | indrasya | śuṣmam | īrayan | apasyu-bhiḥ | induḥ | hinvānaḥ | ajyate | manīṣi-bhiḥ