Sukta 9.76
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा ॥
ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो॑ दे॒वाना॑मनु॒माद्यो॒ नृभि॑: । हरि॑: सृजा॒नो अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां॑सि कृणुते न॒दीष्वा ॥
dhartā diváḥ pavate kṛ́tvyo ráso dákṣo devā́nām anumā́dyo nṛ́bhiḥ | háriḥ sṛjānáḥ átyo na sátvabhir vṛ́thā pā́jāṃsi kṛṇute nadī́ṣv ā́ ||
The upholder of heaven streams in purification—the effective essence, the skill of the gods, to be enjoyed by the human powers. The tawny one, being released, like a steed with its strengths, fashions his mighty energies freely as he enters the rivers (the flowing channels of consciousness).
ध॒र्ता । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । दक्षः॑ । दे॒वाना॑म् । अ॒नु॒ऽमाद्यः॑ । नृऽभिः॑ । हरिः॑ । सृ॒जा॒नः । अत्यः॑ । न । सत्व॑ऽभिः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ । आ ॥धर्ता । दिवः । पवते । कृत्व्यः । रसः । दक्षः । देवानाम् । अनुमाद्यः । नृभिः । हरिः । सृजानः । अत्यः । न । सत्वभिः । वृथा । पाजांसि । कृणुते । नदीषु । आ ॥dhartā | divaḥ | pavate | kṛtvyaḥ | rasaḥ | dakṣaḥ | devānām | anu-mādyaḥ | nṛ-bhiḥ | hariḥ | sṛjānaḥ | atyaḥ | na | satva-bhiḥ | vṛthā | pājāṃsi | kṛṇute | nadīṣu | ā