Sukta 9.74
शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति । दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः ॥
शिशु॒र्न जा॒तोऽव॑ चक्रद॒द्वने॒ स्व१॒॑र्यद्वा॒ज्य॑रु॒षः सिषा॑सति । दि॒वो रेत॑सा सचते पयो॒वृधा॒ तमी॑महे सुम॒ती शर्म॑ स॒प्रथ॑: ॥
śíśur ná jātó ’vá cakradad vánē svàr yád vājī́ aruṣáḥ sisāsati | divó rétasā sacate payovṛ́dhā tám īmahe sumatī́ śárma sapráthaḥ ||
Like a newborn child he cries out in the wood, when the ruddy, force-bearing one seeks the light. He joins with the seed of heaven, increasing the milk of plenitude; him we invoke for a wide peace and a luminous right-mindedness.
शिशुः॑ । न । जा॒तः । अव॑ । च॒क्र॒द॒त् । वने॑ । स्वः॑ । यत् । वा॒जी । अ॒रु॒षः । सिसा॑सति । दि॒वः । रेत॑सा । स॒च॒ते॒ । प॒यः॒ऽवृधा॑ । तम् । ई॒म॒हे॒ । सु॒ऽम॒ती । शर्म॑ । स॒ऽप्रथः॑ ॥शिशुः । न । जातः । अव । चक्रदत् । वने । स्वः । यत् । वाजी । अरुषः । सिसासति । दिवः । रेतसा । सचते । पयःवृधा । तम् । ईमहे । सुमती । शर्म । सप्रथः ॥śiśuḥ | na | jātaḥ | ava | cakradat | vane | svaḥ | yat | vājī | aruṣaḥ | sisāsati | divaḥ | retasā | sacate | payaḥ-vṛdhā | tam | īmahe | su-matī | śarma | sa-prathaḥ