Sukta 9.73
ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे । विद्वान्त्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान् ॥
ऋ॒तस्य॑ गो॒पा न दभा॑य सु॒क्रतु॒स्त्री ष प॒वित्रा॑ हृ॒द्य१॒॑न्तरा द॑धे । वि॒द्वान्त्स विश्वा॒ भुव॑ना॒भि प॑श्य॒त्यवाजु॑ष्टान्विध्यति क॒र्ते अ॑व्र॒तान् ॥
ṛtásya gopā́ ná dábhāya sukrátus trī́ ṣá pavítrā hṛdy àntárā dadhe | vidvā́n sá víśvā bhúvanābhí paśyaty ávā́juṣṭān vidhyati kártē avratā́n ||
He is the herdsman-guardian of ṛta, not to be deceived, of perfect will; he sets the three purifiers within the heart. Knowing, he looks upon all the worlds; he strikes down the unwelcomed, the lawless who fashion disorder.
ऋ॒तस्य॑ । गो॒पाः । न । दभा॑य । सु॒ऽक्रतुः॑ । त्री । सः । प॒वित्रा॑ । हृ॒दि । अ॒न्तः । आ । द॒धे॒ । वि॒द्वान् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒श्य॒ति॒ । अव॑ । अजु॑ष्टान् । वि॒ध्य॒ति । क॒र्ते । अ॒व्र॒तान् ॥ऋतस्य । गोपाः । न । दभाय । सुक्रतुः । त्री । सः । पवित्रा । हृदि । अन्तः । आ । दधे । विद्वान् । सः । विश्वा । भुवना । अभि । पश्यति । अव । अजुष्टान् । विध्यति । कर्ते । अव्रतान् ॥ṛtasya | gopāḥ | na | dabhāya | su-kratuḥ | trī | saḥ | pavitrā | hṛdi | antaḥ | ā | dadhe | vidvān | saḥ | viśvā | bhuvanā | abhi | paśyati | ava | ajuṣṭān | vidhyati | karte | avratān