Sukta 9.73
ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया । धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः ॥
ऋ॒तस्य॒ तन्तु॒र्वित॑तः प॒वित्र॒ आ जि॒ह्वाया॒ अग्रे॒ वरु॑णस्य मा॒यया॑ । धीरा॑श्चि॒त्तत्स॒मिन॑क्षन्त आश॒तात्रा॑ क॒र्तमव॑ पदा॒त्यप्र॑भुः ॥
ṛtásya tántur vítataḥ pavítra ā́ jihvā́yā ágre váruṇasya māyáyā | dhīrā́ś cit tát samínakṣanta āśata ā́trā kártam áva padāty áprabhuḥ ||
The thread of ṛta is stretched out as the purifier, set in front upon the tongue by Varuṇa’s formative power. Even the illumined must join themselves to that; they reach it. Here the maker of crookedness falls down, step by step, powerless.
ऋ॒तस्य॑ । तन्तुः॑ । विऽत॑तः । प॒वित्रे॑ । आ । जि॒ह्वायाः॑ । अग्रे॑ । वरु॑णस्य । मा॒यया॑ । धीराः॑ । चि॒त् । तत् । स॒म्ऽइन॑क्षन्तः । आ॒श॒त॒ । अत्र॑ । क॒र्तम् । अव॑ । प॒दा॒ति॒ । अप्र॑ऽभुः ॥ऋतस्य । तन्तुः । विततः । पवित्रे । आ । जिह्वायाः । अग्रे । वरुणस्य । मायया । धीराः । चित् । तत् । सम्इनक्षन्तः । आशत । अत्र । कर्तम् । अव । पदाति । अप्रभुः ॥ṛtasya | tantuḥ | vi-tataḥ | pavitre | ā | jihvāyāḥ | agre | varuṇasya | māyayā | dhīrāḥ | cit | tat | sam-inakṣantaḥ | āśata | atra | kartam | ava | padāti | apra-bhuḥ