Sukta 9.73
सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः । रुद्रास एषामिषिरासो अद्रुहः स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥
स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनन्ति क॒वयो॑ मनी॒षिण॑: । रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुह॒: स्पश॒: स्वञ्च॑: सु॒दृशो॑ नृ॒चक्ष॑सः ॥
sahásradhāre vítate pavítra ā́ vā́caṃ punanti kaváyo manīṣíṇaḥ | rudrā́sa eṣām iṣirā́so ádruhaḥ spáśaḥ sváñcaḥ sudṛ́śo nṛcákṣasaḥ ||
In the thousand-streamed, widely spread purifier, the seers and thinkers cleanse the Word. Their forces are Rudra-like—swift, without malice; their watchers are self-straight, clear-seeing, with the eye that discerns the human being.
स॒हस्र॑ऽधारे । विऽत॑ते । प॒वित्रे॑ । आ । वाच॑म् । पु॒न॒न्ति॒ । क॒वयः॑ । म॒नी॒षिणः॑ । रु॒द्रासः॑ । ए॒षा॒म् । इ॒षि॒रासः॑ । अ॒द्रुहः॑ । स्पशः॑ । सु॒ऽअञ्चः॑ । सु॒ऽदृशः॑ । नृ॒ऽचक्ष॑सः ॥सहस्रधारे । वितते । पवित्रे । आ । वाचम् । पुनन्ति । कवयः । मनीषिणः । रुद्रासः । एषाम् । इषिरासः । अद्रुहः । स्पशः । सुअञ्चः । सुदृशः । नृचक्षसः ॥sahasra-dhāre | vi-tate | pavitre | ā | vācam | punanti | kavayaḥ | manīṣiṇaḥ | rudrāsaḥ | eṣām | iṣirāsaḥ | adruhaḥ | spaśaḥ | su-añcaḥ | su-dṛśaḥ | nṛ-cakṣasaḥ