Sukta 9.73
प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः । अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥
प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः । अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृत॑: ॥
pratnā́n mā́nād adhyā́ yé sám asvarañ chlokayántrāso rabhasásya mántavaḥ | ápānakṣāso badhirā́ ahāsata ṛtásya pánthāṃ ná taranti duṣkṛ́taḥ ||
From the ancient measure they rise into one accord, these thoughts harnessed to the chant, impelled by a rushing force. But the evil-doers—without the axle, deaf—fall away; they cannot cross the path of ṛta.
प्र॒त्नात् । माना॑त् । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । श्लोक॑ऽयन्त्रासः । र॒भ॒सस्य॑ । मन्त॑वः । अप॑ । अ॒न॒क्षासः॑ । ब॒धि॒राः । अ॒हा॒स॒त॒ । ऋ॒तस्य॑ । पन्था॑म् । न । त॒र॒न्ति॒ । दुः॒ऽकृतः॑ ॥प्रत्नात् । मानात् । अधि । आ । ये । सम्अस्वरन् । श्लोकयन्त्रासः । रभसस्य । मन्तवः । अप । अनक्षासः । बधिराः । अहासत । ऋतस्य । पन्थाम् । न । तरन्ति । दुःकृतः ॥pratnāt | mānāt | adhi | ā | ye | sam-asvaran | śloka-yantrāsaḥ | rabhasasya | mantavaḥ | apa | anakṣāsaḥ | badhirāḥ | ahāsata | ṛtasya | panthām | na | taranti | duḥ-kṛtaḥ