Sukta 9.73
पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान् । इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि ॥
पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्नृ॒चा शोच॑न्तः सं॒दह॑न्तो अव्र॒तान् । इन्द्र॑द्विष्टा॒मप॑ धमन्ति मा॒यया॒ त्वच॒मसि॑क्नीं॒ भूम॑नो दि॒वस्परि॑ ॥
pitúrmā́tur adhyā́ yé sám asvarann ṛcā́ śócantaḥ saṃdáhanto avratā́n | índradviṣṭām ápa dhamanti māyáyā tvájam ásiknīṃ bhū́mano divás pári ||
From the father and the mother they rise into one accord through the hymn; burning they consume the lawless movements. By the power of shaping vision they blow away the dark skin that is hated by Indra, from the wide expanse around heaven.
पि॒तुः मा॒तुः । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । ऋ॒चा । शोच॑न्तः । स॒म्ऽदह॑न्तः । अ॒व्र॒तान् । इन्द्र॑ऽद्विष्टाम् । अप॑ । ध॒म॒न्ति॒ । मा॒यया॑ । त्वच॑म् । असि॑क्नीम् । भूम॑नः । दि॒वः । परि॑ ॥पितुः मातुः । अधि । आ । ये । सम्अस्वरन् । ऋचा । शोचन्तः । सम्दहन्तः । अव्रतान् । इन्द्रद्विष्टाम् । अप । धमन्ति । मायया । त्वचम् । असिक्नीम् । भूमनः । दिवः । परि ॥pituḥ | mātuḥ | adhi | ā | ye | sam-asvaran | ṛcā | śocantaḥ | sam-dahantaḥ | avratān | indra-dviṣṭām | apa | dhamanti | māyayā | tvacam | asiknīm | bhūmanaḥ | divaḥ | pari