Sukta 9.73
सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन् । मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन् ॥
स॒म्यक्स॒म्यञ्चो॑ महि॒षा अ॑हेषत॒ सिन्धो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् । मधो॒र्धारा॑भिर्ज॒नय॑न्तो अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ॥
samyák samyáñco mahiṣā́ aheṣata síndhor ūrmā́v ádhi venā́ avīvipan | mádhor dhā́rābhir janáyanto arkám ít priyā́m índrasya tanvàm avīvṛdhan ||
Straight and straight-forward, the mighty ones surged; upon the wave of the ocean the desirers vibrated and made it quiver. With streams of honey they brought forth the hymn of illumination, and they increased the beloved body of Indra within the being.
स॒म्यक् । स॒म्यञ्चः॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । वे॒नाः । अ॒वी॒वि॒प॒न् । मधोः॑ । धारा॑भिः । ज॒नय॑न्तः । अ॒र्कम् । इत् । प्रि॒याम् । इन्द्र॑स्य । त॒न्व॑म् । अ॒वी॒वृ॒ध॒न् ॥सम्यक् । सम्यञ्चः । महिषाः । अहेषत । सिन्धोः । ऊर्मौ । अधि । वेनाः । अवीविपन् । मधोः । धाराभिः । जनयन्तः । अर्कम् । इत् । प्रियाम् । इन्द्रस्य । तन्वम् । अवीवृधन् ॥samyak | samyañcaḥ | mahiṣāḥ | aheṣata | sindhoḥ | ūrmau | adhi | venāḥ | avīvipan | madhoḥ | dhārābhiḥ | janayantaḥ | arkam | it | priyām | indrasya | tanvam | avīvṛdhan