Sukta 9.73
स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयः । त्रीन्त्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन् ॥
स्रक्वे॑ द्र॒प्सस्य॒ धम॑त॒: सम॑स्वरन्नृ॒तस्य॒ योना॒ सम॑रन्त॒ नाभ॑यः । त्रीन्त्स मू॒र्ध्नो असु॑रश्चक्र आ॒रभे॑ स॒त्यस्य॒ नाव॑: सु॒कृत॑मपीपरन् ॥
srakvé drapsásya dhámataḥ sám asvarann ṛtásya yónā sám aranta nā́bhayaḥ | trī́nt sa mūrdhnó ásuraś cakra ārábhē satyásya nā́vaḥ su-kṛ́tam apīparan ||
For the outpouring drop, the lips (of the pressing) sounded together; the navel-centres came together into the womb of Ṛta. He, the Asura, set three summit-points as a support; and the vessels of the Truth made the well-wrought (work) swell and grow within us.
स्रक्वे॑ । द्र॒प्सस्य॑ । धम॑तः । सम् । अ॒स्व॒र॒न् । ऋ॒तस्य॑ । योना॑ । सम् । अ॒र॒न्त॒ । नाभ॑यः । त्रीन् । सः । मू॒र्ध्नः । असु॑रः । च॒क्रे॒ । आ॒ऽरभे॑ । स॒त्यस्य॑ । नावः॑ । सु॒ऽकृत॑म् । अ॒पी॒प॒र॒न् ॥स्रक्वे । द्रप्सस्य । धमतः । सम् । अस्वरन् । ऋतस्य । योना । सम् । अरन्त । नाभयः । त्रीन् । सः । मूर्ध्नः । असुरः । चक्रे । आरभे । सत्यस्य । नावः । सुकृतम् । अपीपरन् ॥srakve | drapsasya | dhamataḥ | sam | asvaran | ṛtasya | yonā | sam | aranta | nābhayaḥ | trīn | saḥ | mūrdhnaḥ | asuraḥ | cakre | ārabhe | satyasya | nāvaḥ | su-kṛtam | apīparan