Sukta 9.71
त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः । अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥
त्वे॒षं रू॒पं कृ॑णुते॒ वर्णो॑ अस्य॒ स यत्राश॑य॒त्समृ॑ता॒ सेध॑ति स्रि॒धः । अ॒प्सा या॑ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु॑ष्टु॒ती नस॑ते॒ सं गोअ॑ग्रया ॥
tveṣáṁ rūpáṁ kṛṇute várṇo asya sá yátrāśayat samṛtā́ sédhati srídhaḥ | apsā́ yāti svadháyā daivyáṁ jánaṁ sáṁ suṣṭutī́ násate sáṁ goágrayā ||
He makes for himself a keen and blazing form; his colour becomes intense. Where he has lain, made whole by the right joining, there he repels the breakers of harmony. He goes in the waters by his own inner law to the divine people; with perfect praise he draws near, and with the foremost rays he gathers into unity.
त्वे॒षम् । रू॒पम् । कृ॒णु॒ते॒ । वर्णः॑ । अ॒स्य॒ । सः । यत्र॑ । अश॑यत् । सम्ऽऋ॑ता । सेध॑ति । स्रि॒धः । अ॒प्साः । या॒ति॒ । स्व॒धया॑ । दैव्य॑म् । जन॑म् । सम् । सु॒ऽस्तु॒ती । नस॑ते । सम् । गोऽअ॑ग्रया ॥त्वेषम् । रूपम् । कृणुते । वर्णः । अस्य । सः । यत्र । अशयत् । सम्ऋता । सेधति । स्रिधः । अप्साः । याति । स्वधया । दैव्यम् । जनम् । सम् । सुस्तुती । नसते । सम् । गोअग्रया ॥tveṣam | rūpam | kṛṇute | varṇaḥ | asya | saḥ | yatra | aśayat | sam-ṛtā | sedhati | sridhaḥ | apsāḥ | yāti | svadhayā | daivyam | janam | sam | su-stutī | nasate | sam | go-agrayā