Sukta 9.71
परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि । सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति ॥
परा॒ व्य॑क्तो अरु॒षो दि॒वः क॒विर्वृषा॑ त्रिपृ॒ष्ठो अ॑नविष्ट॒ गा अ॒भि । स॒हस्र॑णीति॒र्यति॑: परा॒यती॑ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा॑जति ॥
parā́ vyàkto aruṣó diváḥ kavír vṛ́ṣā tripṛṣṭhó anaviṣṭá gā́ abhí | sahásranītiḥ yátiḥ parāyátī rebhó ná pūrvī́r uṣáso ví rājati ||
Far he is made manifest—the tawny seer of heaven, the strong bull, triple-backed, seeking the rays. With a thousand guidances he journeys onward; like a singer he shines out through the many dawns that have gone before.
परा॑ । विऽअ॑क्तः । अ॒रु॒षः । दि॒वः । क॒विः । वृषा॑ । त्रि॒ऽपृ॒ष्ठः । अ॒न॒वि॒ष्ट॒ । गाः । अ॒भि । स॒हस्र॑ऽनीतिः । यतिः॑ । प॒रा॒ऽयतिः॑ । रे॒भः । न । पू॒र्वीः । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥परा । विअक्तः । अरुषः । दिवः । कविः । वृषा । त्रिपृष्ठः । अनविष्ट । गाः । अभि । सहस्रनीतिः । यतिः । परायतिः । रेभः । न । पूर्वीः । उषसः । वि । राजति ॥parā | vi-aktaḥ | aruṣaḥ | divaḥ | kaviḥ | vṛṣā | tri-pṛṣṭhaḥ | anaviṣṭa | gāḥ | abhi | sahasra-nītiḥ | yatiḥ | parāyatiḥ | rebhaḥ | na | pūrvīḥ | uṣasaḥ | vi | rājati