Sukta 9.71
उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य । दिव्यः सुपर्णोऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥
उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी॑रधित॒ सूर्य॑स्य । दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोम॒: परि॒ क्रतु॑ना पश्यते॒ जाः ॥
ukṣéva yū́thā pariyán arāvīd ádhi tviṣī́r adhita sū́ryasya | divyáḥ supárṇo’vá cakṣata kṣā́ṁ sómaḥ pári krátunā paśyate jā́ḥ ||
Like a bull moving with the herds he has sounded forth; he has set his splendours upon the Sun. A divine fair-winged power looks down upon the earth; Soma, with his conscious will, surveys the births and beings all around.
उ॒क्षाऽइ॑व । यू॒था । प॒रि॒ऽयन् । अ॒रा॒वी॒त् । अधि॑ । त्विषीः॑ । अ॒धि॒त॒ । सूर्य॑स्य । दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्ष॒त॒ । क्षाम् । सोमः॑ । परि॑ । क्रतु॑ना । प॒श्य॒ते॒ । जाः ॥उक्षाइव । यूथा । परियन् । अरावीत् । अधि । त्विषीः । अधित । सूर्यस्य । दिव्यः । सुपर्णः । अव । चक्षत । क्षाम् । सोमः । परि । क्रतुना । पश्यते । जाः ॥ukṣā-iva | yūthā | pari-yan | arāvīt | adhi | tviṣīḥ | adhita | sūryasya | divyaḥ | su-parṇaḥ | ava | cakṣata | kṣām | somaḥ | pari | kratunā | paśyate | jāḥ