Sukta 9.71
श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति । ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञियः ॥
श्ये॒नो न योनिं॒ सद॑नं धि॒या कृ॒तं हि॑र॒ण्यय॑मा॒सदं॑ दे॒व एष॑ति । ए रि॑णन्ति ब॒र्हिषि॑ प्रि॒यं गि॒राश्वो॒ न दे॒वाँ अप्ये॑ति य॒ज्ञिय॑: ॥
śyénो ná yóniṁ sádanam dhiyā́ kṛtáṁ hiraṇyáyam āsádaṁ devá éṣati | ā īm riṇanti bárhiṣi priyáṁ girā́ aśvó ná devā́n apyéti yajñíyaḥ ||
Like a falcon he seeks his nest, the seat fashioned by vision—a golden resting-place the god desires. They set him moving on the sacred grass with the beloved word; like a swift horse he goes toward the gods, worthy of the offering.
श्ये॒नः । न । योनि॑म् । सद॑नम् । धि॒या । कृ॒तम् । हि॒र॒ण्यय॑म् । आ॒ऽसद॑म् । दे॒वः । एष॑ति । आ । ई॒म् इति॑ । रि॒ण॒न्ति॒ । ब॒र्हिषि॑ । प्रि॒यम् । गि॒रा । अश्वः॑ । न । दे॒वान् । अपि॑ । ए॒ति॒ । य॒ज्ञियः॑ ॥श्येनः । न । योनिम् । सदनम् । धिया । कृतम् । हिरण्ययम् । आसदम् । देवः । एषति । आ । ईम् इति । रिणन्ति । बर्हिषि । प्रियम् । गिरा । अश्वः । न । देवान् । अपि । एति । यज्ञियः ॥śyenaḥ | na | yonim | sadanam | dhiyā | kṛtam | hiraṇyayam | āsadam | devaḥ | ā | īṣati | ā | īm iti | riṇanti | barhiṣi | priyam | girā | aśvaḥ | na | devān | api | eti | yajñiyaḥ