Sukta 9.71
अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती । स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥
अद्रि॑भिः सु॒तः प॑वते॒ गभ॑स्त्योर्वृषा॒यते॒ नभ॑सा॒ वेप॑ते म॒ती । स मो॑दते॒ नस॑ते॒ साध॑ते गि॒रा ने॑नि॒क्ते अ॒प्सु यज॑ते॒ परी॑मणि ॥
ádribhiḥ sutáḥ pavate gábhastyor vṛṣā́yate nábhasā vépate matī́ | sá modate násate sā́dhate girā́ nénikte apsú yájate parī́maṇi ||
Pressed by the stones, he streams in the grasping hands; he grows puissant, and with the vastness he makes the thought tremble into awakening. He rejoices, he draws near and accomplishes by the inspired word; washed in the waters, he offers worship in the encircling perfection.
अद्रि॑ऽभिः । सु॒तः । पा॒व॒ते॒ । गभ॑स्त्योः । वृ॒षा॒यते॑ । नभ॑सा । वेप॑ते । म॒ती । सः । मो॒द॒ते॒ । नस॑ते । साध॑ते । गि॒रा । ने॒नि॒क्ते । अ॒प्ऽसु । यज॑ते । परी॑मणि ॥अद्रिभिः । सुतः । पावते । गभस्त्योः । वृषायते । नभसा । वेपते । मती । सः । मोदते । नसते । साधते । गिरा । नेनिक्ते । अप्सु । यजते । परीमणि ॥adri-bhiḥ | sutaḥ | pavate | gabhastyoḥ | vṛṣāyate | nabhasā | vepate | matī | saḥ | modate | nasate | sādhate | girā | nenikte | ap-su | yajate | parīmaṇi