Sukta 9.71
प्र कृष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तम् । जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना ॥
प्र कृ॑ष्टि॒हेव॑ शू॒ष ए॑ति॒ रोरु॑वदसु॒र्यं१॒॑ वर्णं॒ नि रि॑णीते अस्य॒ तम् । जहा॑ति व॒व्रिं पि॒तुरे॑ति निष्कृ॒तमु॑प॒प्रुतं॑ कृणुते नि॒र्णिजं॒ तना॑ ॥
prá kṛṣṭihéva śūṣá eti rórūvad asuryàṁ várṇaṁ ní riṇīte asya tám | jahā́ti vavrím pitúr eti niṣkṛtám upaprútam kṛṇute nirṇíjaṁ tánā ||
Forward he moves with impelling force, like one who wins the field for the peoples; with a resounding cry he strips away the asuric colour, the darkness that clings to him. He casts off the enclosing sheath and goes to the Father’s prepared home; he makes for himself, by his own being, the purifying luminous robe, crossing beyond the lower obstruction.
प्र । कृ॒ष्टि॒हाऽइ॑व । शू॒षः । ए॒ति॒ । रोरु॑वत् । अ॒सु॒र्य॑म् । वर्ण॑म् । नि । रि॒णी॒ते॒ । अ॒स्य॒ । तम् । जहा॑ति । व॒व्रिम् । पि॒तुः । ए॒ति॒ । निः॒ऽकृ॒तम् । उ॒प॒ऽप्रुत॑म् । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । तना॑ ॥प्र । कृष्टिहाइव । शूषः । एति । रोरुवत् । असुर्यम् । वर्णम् । नि । रिणीते । अस्य । तम् । जहाति । वव्रिम् । पितुः । एति । निःकृतम् । उपप्रुतम् । कृणुते । निःनिजम् । तना ॥pra | kṛṣṭihā-iva | śūṣaḥ | eti | roruvat | asuryam | varṇam | ni | riṇīte | asya | tam | jahāti | vavrim | pituḥ | eti | niḥ-kṛtam | upa-prutam | kṛṇute | niḥ-nijam | tanā