Sukta 9.71
आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः । हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे ॥
आ दक्षि॑णा सृज्यते शु॒ष्म्या॒३॒॑सदं॒ वेति॑ द्रु॒हो र॒क्षस॑: पाति॒ जागृ॑विः । हरि॑रोप॒शं कृ॑णुते॒ नभ॒स्पय॑ उप॒स्तिरे॑ च॒म्वो॒३॒॑र्ब्रह्म॑ नि॒र्णिजे॑ ॥
ā dakṣiṇā sṛjyate śuṣmyā̀sadaṁ veti druho rakṣásaḥ pāti jā́gṛviḥ | háriropáśaṁ kṛṇute nábhaspáya upastíre camvór bráhma nirṇíje ||
The Dakṣiṇā, the power of right discernment and effective offering, is released into movement; the mighty one comes to the seat of fulfilment. Awake and vigilant, it guards from the forces of distortion and the hostile darkness. The tawny Soma makes his luminous adornment; as a covering he spreads the milk of the wide firmament, and for the two cups he lays down the mantra-force (brahman) as a purifying robe.
आ । दक्षि॑णा । सृ॒ज्य॒ते॒ । शु॒ष्मी । आ॒ऽसद॑म् । वेति॑ । द्रु॒हः । र॒क्षसः॑ । पा॒ति॒ । जागृ॑विः । हरिः॑ । ओ॒प॒शम् । कृ॒णु॒ते॒ । नभः॑ । पयः॑ । उ॒प॒ऽस्तिरे॑ । च॒म्वोः॑ । ब्रह्म॑ । निः॒ऽनिजे॑ ॥आ । दक्षिणा । सृज्यते । शुष्मी । आसदम् । वेति । द्रुहः । रक्षसः । पाति । जागृविः । हरिः । ओपशम् । कृणुते । नभः । पयः । उपस्तिरे । चम्वोः । ब्रह्म । निःनिजे ॥ā | dakṣiṇā | sṛjyate | śuṣmī | āsadam | veti | druhaḥ | rakṣasaḥ | pāti | jāgṛviḥ | hariḥ | opaśam | kṛṇute | nabhaḥ | payaḥ | upa-stire | camvoḥ | brahma | niḥ-nije