Sukta 9.70
शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि । जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥
शुचि॑: पुना॒नस्त॒न्व॑मरे॒पस॒मव्ये॒ हरि॒र्न्य॑धाविष्ट॒ सान॑वि । जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ त्रि॒धातु॒ मधु॑ क्रियते सु॒कर्म॑भिः ॥
śúcīḥ punānáḥ tanvàm arepásam ávye hárir ny àdhāviṣṭa sánāvi | júṣṭo mitrā́ya váruṇāya vāyáve tri-dhā́tu mádhu kriyate su-kármabhiḥ ||
Pure, purifying, he makes his body stainless; the tawny one settles upon the woolen ridge. Accepted by Mitra, Varuṇa and Vāyu, the threefold honey is fashioned by right workings.
शुचिः॑ । पु॒ना॒नः । त॒न्व॑म् । अ॒रे॒पस॑म् । अव्ये॑ । हरिः॑ । नि । अ॒धा॒वि॒ष्ट॒ । सान॑वि । जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । त्रि॒ऽधातु॑ । मधु॑ । क्रि॒य॒ते॒ । सु॒कर्म॑ऽभिः ॥शुचिः । पुनानः । तन्वम् । अरेपसम् । अव्ये । हरिः । नि । अधाविष्ट । सानवि । जुष्टः । मित्राय । वरुणाय । वायवे । त्रिधातु । मधु । क्रियते । सुकर्मभिः ॥śuciḥ | punānaḥ | tanvam | arepasam | avye | hariḥ | ni | adhāviṣṭa | sānavi | juṣṭaḥ | mitrāya | varuṇāya | vāyave | tri-dhātu | madhu | kriyate | sukarma-bhiḥ