Sukta 9.70
रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः । आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी ॥
रु॒वति॑ भी॒मो वृ॑ष॒भस्त॑वि॒ष्यया॒ शृङ्गे॒ शिशा॑नो॒ हरि॑णी विचक्ष॒णः । आ योनिं॒ सोम॒: सुकृ॑तं॒ नि षी॑दति ग॒व्ययी॒ त्वग्भ॑वति नि॒र्णिग॒व्ययी॑ ॥
ruvátī bhīmó vṛṣabhás taviṣyáyā śṛ́ṅge śíśāno háriṇī vi-cákṣaṇaḥ | ā́ yóniṃ sómaḥ su-kṛ́taṃ ní ṣīdati gavyáyī tvág bhavati nirṇíg gavyáyī ||
Roaring, formidable, the bull sharpens his horns with might, the tawny one of wide vision. Soma sits down into the well-made womb; a cow-born skin becomes his shining garment, cow-born his radiant robe.
रु॒वति॑ । भी॒मः । वृ॒ष॒भः । त॒वि॒ष्यया॑ । शृङ्गे॒ इति॑ । शिशा॑नः । हरि॑णी॒ इति॑ । वि॒ऽच॒क्ष॒णः । आ । योनि॑म् । सोमः॑ । सुऽकृ॑तम् । नि । सी॒द॒ति॒ । ग॒व्ययी॑ । त्वक् । भ॒व॒ति॒ । निः॒ऽनिक् । अ॒व्ययी॑ ॥रुवति । भीमः । वृषभः । तविष्यया । शृङ्गे इति । शिशानः । हरिणी इति । विचक्षणः । आ । योनिम् । सोमः । सुकृतम् । नि । सीदति । गव्ययी । त्वक् । भवति । निःनिक् । अव्ययी ॥ruvati | bhīmaḥ | vṛṣabhaḥ | taviṣyayā | śṛṅgeiti | śiśānaḥ | hariṇī iti | vi-cakṣaṇaḥ | ā | yonim | somaḥ | su-kṛtam | ni | sīdati | gavyayī | tvak | bhavati | niḥ-nik | avyayī