Sukta 9.70
स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः । जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः ॥
स मा॒तरा॒ न ददृ॑शान उ॒स्रियो॒ नान॑ददेति म॒रुता॑मिव स्व॒नः । जा॒नन्नृ॒तं प्र॑थ॒मं यत्स्व॑र्णरं॒ प्रश॑स्तये॒ कम॑वृणीत सु॒क्रतु॑: ॥
sá mātarā́ na dádṛśāna usríyo nā́nadad eti marútām iva svanáḥ | jā́nann ṛtáṃ prathamáṃ yát svaḥ-naráṃ práśastaye kám avṛṇīta su-krátuḥ ||
He goes lowing like the bright cows, as though calling to the Mothers, with the sound of the Maruts. Knowing the first Ṛta, that heaven-bearing force, the strong-willed chooses it for his praise.
सः । मा॒तरा॑ । न । ददृ॑शानः । उ॒स्रियः॑ । नान॑दत् । ए॒ति॒ । म॒रुता॑म्ऽइव । स्व॒नः । जा॒नन् । ऋ॒तम् । प्र॒थ॒मम् । यत् । स्वः॑ऽनरम् । प्रऽश॑स्तये । कम् । अ॒वृ॒णी॒त॒ । सु॒ऽक्रतुः॑ ॥सः । मातरा । न । ददृशानः । उस्रियः । नानदत् । एति । मरुताम्इव । स्वनः । जानन् । ऋतम् । प्रथमम् । यत् । स्वःनरम् । प्रशस्तये । कम् । अवृणीत । सुक्रतुः ॥saḥ | mātarā | na | dadṛśānaḥ | usriyaḥ | nānadat | eti | marutām-iva | svanaḥ | jānan | ṛtam | prathamam | yat | svaḥ-naram | pra-śastaye | kam | avṛṇīta | su-kratuḥ