Sukta 9.70
स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः । वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः ॥
स म॑र्मृजा॒न इ॑न्द्रि॒याय॒ धाय॑स॒ ओभे अ॒न्ता रोद॑सी हर्षते हि॒तः । वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुध॑: ॥
sá marmṛjāná indriyā́ya dhā́yasa ā́ ubhé antā́ ródasī harṣate hitáḥ | vṛ́ṣā śúṣmeṇa bādhate ví durmatī́r ā́dediśānaḥ śaryahéva śurúdhaḥ ||
Polishing himself for the power of Indra, he rejoices, set between the two ends of the worlds. A bull by force, he drives away the crooked mindings, charging like a hunter against the obstructers.
सः । म॒र्मृ॒जा॒नः । इ॒न्द्रि॒याय॑ । धाय॑से । आ । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । ह॒र्ष॒ते॒ । हि॒तः । वृषा॑ । शुष्मे॑ण । बा॒ध॒ते॒ । वि । दुः॒ऽम॒तीः । आ॒देदि॑शानः । श॒र्य॒हाऽइ॑व । शु॒रुधः॑ ॥सः । मर्मृजानः । इन्द्रियाय । धायसे । आ । उभे इति । अन्तरिति । रोदसी इति । हर्षते । हितः । वृषा । शुष्मेण । बाधते । वि । दुःमतीः । आदेदिशानः । शर्यहाइव । शुरुधः ॥saḥ | marmṛjānaḥ | indriyāya | dhāyase | ā | ubhe iti | antariti | rodasī iti | harṣate | hitaḥ | vṛṣā | śuṣmeṇa | bādhate | vi | duḥ-matīḥ | ādediśānaḥ | śayarhā-iva | śurudhaḥ