Sukta 9.70
स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा । व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥
स मृ॒ज्यमा॑नो द॒शभि॑: सु॒कर्म॑भि॒: प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ । व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥
sá mṛjyámāno daśábhiḥ su-kármabhiḥ prá madhyamā́su mātṛ́ṣu pra-mé sácā | vratā́ni pā́no amṛ́tasya cā́ruṇa ubhé nṛ-cákṣā ánu paśyate víśau ||
Being cleansed by ten right workings, he moves with the middle Mothers, in the forward measure. Drinking the beautiful immortality, with human-seeing he beholds both peoples (both domains).
सः । मृ॒ज्यमा॑नः । द॒शऽभिः॑ । सु॒कर्म॑ऽभिः । प्र । म॒ध्य॒मासु॑ । मा॒तृषु॑ । प्र॒ऽमे । सचा॑ । व्र॒तानि॑ । पा॒नः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । नृ॒ऽचक्षाः॑ । अनु॑ । प॒श्य॒ते॒ । विशौ॑ ॥सः । मृज्यमानः । दशभिः । सुकर्मभिः । प्र । मध्यमासु । मातृषु । प्रमे । सचा । व्रतानि । पानः । अमृतस्य । चारुणः । उभे इति । नृचक्षाः । अनु । पश्यते । विशौ ॥saḥ | mṛjyamānaḥ | daśa-bhiḥ | sukarma-bhiḥ | pra | madhyamāsu | mātṛṣu | pra-me | sacā | vratāni | pānaḥ | amṛtasya | cāruṇaḥ | ubhe iti | nṛ-cakṣāḥ | anu | paśyate | viśau