Sukta 9.70
स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥
स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे । तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥
sá bhíkṣamāṇo amṛ́tasya cā́ruṇa ubhé dyā́vā kā́vyenā ví śaśrathe | téjiṣṭhā ápo maṃhánā pári vyata yadī́ devásya śrávasā sádo vidúḥ ||
Seeking the beautiful immortality, he spreads out by the poet’s seeing across both heavens. With swift generosity he encompasses the most shining waters, when by the god’s glory they know the seat (the luminous station).
सः । भिक्ष॑माणः । अ॒मृत॑स्य । चारु॑णः । उ॒भे इति॑ । द्यावा॑ । काव्ये॑न । वि । श॒श्र॒थ्चे । तेजि॑ष्ठाः । अ॒पः । मं॒हना॑ । परि॑ । व्य॒त॒ । यदि॑ । दे॒वस्य॑ । श्रव॑सा । सदः॑ । वि॒दुः ॥सः । भिक्षमाणः । अमृतस्य । चारुणः । उभे इति । द्यावा । काव्येन । वि । शश्रथ्चे । तेजिष्ठाः । अपः । मंहना । परि । व्यत । यदि । देवस्य । श्रवसा । सदः । विदुः ॥saḥ | bhikṣamāṇaḥ | amṛtasya | cāruṇaḥ | ubhe iti | dyāvā | kāvyena | vi | śaśrathe | tejiṣṭhāḥ | apaḥ | maṃhanā | pari | vyata | yadi | devasya | śravasā | sadaḥ | viduḥ