Sukta 9.70
त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥
त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि । च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥
trír asmai saptá dhenávo duduhre satyā́m āśíraṃ pū́rvye vyòmani | catvā́ry anyā́ bhúvanāni nirṇíje cā́rūṇi cakre yád ṛtaír ávardhata ||
Thrice the seven fostering powers milked out for him the true delight in the ancient wideness of the sky. And he fashioned four other beautiful worlds as his shining robe, when he increased by the laws of Ṛta.
त्रिः । अ॒स्मै॒ । स॒प्त । धे॒नवः॑ । दु॒दु॒ह्रे॒ । स॒त्याम् । आ॒ऽशिर॑म् । पू॒र्व्ये । विऽओ॑मनि । च॒त्वारि॑ । अ॒न्या । भुव॑नानि । निः॒ऽनिजे॑ । चारू॑णि । च॒क्रे॒ । यत् । ऋ॒तैः । अव॑र्धत ॥त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रे । सत्याम् । आशिरम् । पूर्व्ये । विओमनि । चत्वारि । अन्या । भुवनानि । निःनिजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥triḥ | asmai | sapta | dhenavaḥ | duduhre | satyām | āśiram | pūrvye | vyomani | catvāri | anyā | bhuvanāni | nirṇije | cārūṇi | cakre | yat | ṛtaiḥ | avardhata