Sukta 9.7
अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये । श्रवो वसूनि सं जितम् ॥
अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ । श्रवो॒ वसू॑नि॒ सं जि॑तम् ॥
asmábhyaṃ rodasī rayíṃ mádhvo vā́jasya sātáye | śrávo vásūni sáṃ jitam ||
For us, O Heaven-and-Earth, win together the riches of delight for the conquest of plenitude; win for us the luminous fame and the true treasures gathered in unity.
अ॒स्मभ्य॑म् । रो॒द॒सी॒ इति॑ । र॒यिम् । मध्वः॑ । वाज॑स्य । सा॒तये॑ । श्रवः॑ । वसू॑नि । सम् । जि॒त॒म् ॥अस्मभ्यम् । रोदसी इति । रयिम् । मध्वः । वाजस्य । सातये । श्रवः । वसूनि । सम् । जितम् ॥asmabhyam | rodasī iti | rayim | madhvaḥ | vājasya | sātaye | śravaḥ | vasūni | sam | jitam