Sukta 9.7
आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः ॥
आ मि॒त्रावरु॑णा॒ भगं॒ मध्व॑: पवन्त ऊ॒र्मय॑: । वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥
ā́ mitrā́varuṇā bhágaṃ mádhvaḥ pavante ū́rmayaḥ | vidānā́ asya śákma-bhiḥ ||
Toward Mitra-Varuṇa, toward Bhaga, the waves of sweetness flow, knowing his powers of effective action; they bring the harmony of right relations and the share of delight.
आ । मि॒त्रावरु॑णा । भग॑म् । मध्वः॑ । प॒व॒न्ते॒ । ऊ॒र्मयः॑ । वि॒दा॒नाः । अ॒स्य॒ । शक्म॑ऽभिः ॥आ । मित्रावरुणा । भगम् । मध्वः । पवन्ते । ऊर्मयः । विदानाः । अस्य । शक्मभिः ॥ā | mitrāvaruṇā | bhagam | madhvaḥ | pavante | ūrmayaḥ | vidānāḥ | asya | śakma-bhiḥ