Sukta 9.68
अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति । अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम् ॥
अ॒यं दि॒व इ॑यर्ति॒ विश्व॒मा रज॒: सोम॑: पुना॒नः क॒लशे॑षु सीदति । अ॒द्भिर्गोभि॑र्मृज्यते॒ अद्रि॑भिः सु॒तः पु॑ना॒न इन्दु॒र्वरि॑वो विदत्प्रि॒यम् ॥
ayáṃ divá iyarti víśvam ā́ rájaḥ sómaḥ punānáḥ kalaśéṣu sīdati | adbhír góbhiḥ mṛ́jyate ádribhiḥ sutáḥ punāná índur várivo vidat priyám ||
This Soma from heaven sets all the spaces in motion; self-purifying, he takes his seat in the bowls. With waters and with rays he is cleansed; pressed by the stones, the purifying drop finds the wide room and what is dear— the soul’s consenting delight.
अ॒यम् । दि॒वः । इ॒य॒र्ति॒ । विश्व॑म् । आ । रजः॑ । सोमः॑ । पु॒ना॒नः । क॒लशे॑षु । सी॒द॒ति॒ । अ॒त्ऽभिः । गोभिः॑ । मृ॒ज्य॒ते॒ । अद्रि॑ऽभिः । सु॒तः । पु॒ना॒नः । इन्दुः॑ । वरि॑ऽवः । वि॒द॒त् । प्रि॒यम् ॥अयम् । दिवः । इयर्ति । विश्वम् । आ । रजः । सोमः । पुनानः । कलशेषु । सीदति । अत्भिः । गोभिः । मृज्यते । अद्रिभिः । सुतः । पुनानः । इन्दुः । वरिवः । विदत् । प्रियम् ॥ayam | divaḥ | iyarti | viśvam | ā | rajaḥ | somaḥ | punānaḥ | kalaśeṣu | sīdati | at-bhiḥ | gobhiḥ | mṛjyate | adri-bhiḥ | sutaḥ | punānaḥ | induḥ | varivaḥ | vidat | priyam