Sukta 9.68
परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः । यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळमर्त्यः ॥
प॒रि॒प्र॒यन्तं॑ व॒य्यं॑ सुषं॒सदं॒ सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभ॑: । यो धार॑या॒ मधु॑माँ ऊ॒र्मिणा॑ दि॒व इय॑र्ति॒ वाचं॑ रयि॒षाळम॑र्त्यः ॥
pari-prayántaṃ vayyyáṃ su-saṃsádaṃ sómaṃ manīṣā́ abhy ànūṣata stúbhaḥ | yó dhā́rayā mádhumān ū́rmiṇā divá iyárti vā́caṃ rayiṣā́ḷ amártyaḥ ||
As Soma moves all around—fit for the flight, well-seated—the inspired thoughts and hymns have sung to him. He, rich in sweetness, with his wave from heaven, lifts up the word; immortal, he increases the plenitude of being.
प॒रि॒ऽप्र॒यन्त॑म् । व॒य्य॑म् । सु॒ऽसं॒सद॑म् । सोम॑म् । म॒नी॒षाः । अ॒भि । अ॒नू॒ष॒त॒ । स्तुभः॑ । यः । धार॑या । मधु॑ऽमान् । ऊ॒र्मिणा॑ । दि॒वः । इय॑र्ति । वाच॑म् । र॒यि॒षाट् । अम॑र्त्यः ॥परिप्रयन्तम् । वय्यम् । सुसंसदम् । सोमम् । मनीषाः । अभि । अनूषत । स्तुभः । यः । धारया । मधुमान् । ऊर्मिणा । दिवः । इयर्ति । वाचम् । रयिषाट् । अमर्त्यः ॥pari-prayantam | vayyam | su-saṃsadam | somam | manīṣāḥ | abhi | anūṣata | stubhaḥ | yaḥ | dhārayā | madhu-mān | ūrmiṇā | divaḥ | iyarti | vācam | rayiṣāṭ | amartyaḥ