Sukta 9.68
त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम् । अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये ॥
त्वां मृ॑जन्ति॒ दश॒ योष॑णः सु॒तं सोम॒ ऋषि॑भिर्म॒तिभि॑र्धी॒तिभि॑र्हि॒तम् । अव्यो॒ वारे॑भिरु॒त दे॒वहू॑तिभि॒र्नृभि॑र्य॒तो वाज॒मा द॑र्षि सा॒तये॑ ॥
tvā́ṃ mṛ́janti dáśa yóṣaṇaḥ sutáṃ sóma ṛ́ṣibhir matíbhiḥ dhītíbhiḥ hitám | avyó vā́rebhir utá deváhūtibhir nṛ́bhir yató vājám ā́ dárṣi sātáye ||
Ten maidens cleanse you, O Soma, pressed and set in place by the seers through thoughts and steady contemplations. With the woolen sieves and with the callings of the gods, with the human powers— from there you come manifesting the plenitude of force for the winning.
त्वाम् । मृ॒ज॒न्ति॒ । दश॑ । योष॑णः । सु॒तम् । सो॒म॒ । ऋषि॑ऽभिः । म॒तिऽभिः॑ । धी॒तिऽभिः॑ । हि॒तम् । अव्यः॑ । वारे॑भिः । उ॒त । दे॒वहू॑तिऽभिः । नृऽभिः॑ । य॒तः । वाज॑म् । आ । द॒र्षि॒ । सा॒तये॑ ॥त्वाम् । मृजन्ति । दश । योषणः । सुतम् । सोम । ऋषिभिः । मतिभिः । धीतिभिः । हितम् । अव्यः । वारेभिः । उत । देवहूतिभिः । नृभिः । यतः । वाजम् । आ । दर्षि । सातये ॥tvām | mṛjanti | daśa | yoṣaṇaḥ | sutam | soma | ṛṣi-bhiḥ | mati-bhiḥ | dhīti-bhiḥ | hitam | avyaḥ | vārebhiḥ | uta | devahūti-bhiḥ | nṛ-bhiḥ | yataḥ | vājam | ā | darṣi | sātaye