Sukta 9.68
मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः । तं मर्जयन्त सुवृधं नदीष्वाँ उशन्तमंशुं परियन्तमृग्मियम् ॥
म॒न्द्रस्य॑ रू॒पं वि॑विदुर्मनी॒षिण॑: श्ये॒नो यदन्धो॒ अभ॑रत्परा॒वत॑: । तं म॑र्जयन्त सु॒वृधं॑ न॒दीष्वाँ उ॒शन्त॑मं॒शुं प॑रि॒यन्त॑मृ॒ग्मिय॑म् ॥
mandrásya rūpáṃ vívidur manīṣíṇaḥ śyénो yád ándho ábharat parāvátaḥ | táṃ márjayanta su-vṛ́dhaṃ nadī́ṣv ā́ uśántam aṃśúṃ paríyantam ṛ́gmiyam ||
The thinkers have found the form of the rapturous one, when the eagle brought the Soma-essence from the far beyond. They cleanse him, well-growing, in the rivers— the desired ray moving around, fit for the hymn and the rhythm of truth.
म॒न्द्रस्य॑ । रू॒पम् । वि॒वि॒दुः॒ । म॒नी॒षिणः॑ । श्ये॒नः । यत् । अन्धः॑ । अभ॑रत् । प॒रा॒ऽवतः॑ । तम् । म॒र्ज॒य॒न्त॒ । सु॒ऽवृध॑म् । न॒दीषु॑ । आ । उ॒शन्त॑म् । अं॒शुम् । प॒रि॒ऽयन्त॑म् । ऋ॒ग्मिय॑म् ॥मन्द्रस्य । रूपम् । विविदुः । मनीषिणः । श्येनः । यत् । अन्धः । अभरत् । परावतः । तम् । मर्जयन्त । सुवृधम् । नदीषु । आ । उशन्तम् । अंशुम् । परियन्तम् । ऋग्मियम् ॥mandrasya | rūpam | vividuḥ | manīṣiṇaḥ | śyenaḥ | yat | andhaḥ | abharat | parāvataḥ | tam | marjayanta | su-vṛdham | nadīṣu | ā | uśantam | aṃśum | pari-yantam | ṛgmiyam