Sukta 9.68
सं दक्षेण मनसा जायते कविॠतस्य गर्भो निहितो यमा परः । यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम् ॥
सं दक्षे॑ण॒ मन॑सा जायते क॒विॠ॒तस्य॒ गर्भो॒ निहि॑तो य॒मा प॒रः । यूना॑ ह॒ सन्ता॑ प्रथ॒मं वि ज॑ज्ञतु॒र्गुहा॑ हि॒तं जनि॑म॒ नेम॒मुद्य॑तम् ॥
sáṃ dákṣeṇa mánasā jāyate kavír ṛtásya gárbho níhito yámā paráḥ | yū́nā ha sántā prathamáṃ ví jajñatur gúhā hitáṃ jánima némam úd-yatam ||
By discerning power and by the mind the Seer is born— a womb of the Truth set apart beyond the pair. Though young, they are; yet first they are born: the hidden birth, placed in the secret, rises upward to its destined turn.
सम् । दक्षे॑ण । मन॑सा । जा॒य॒ते॒ । क॒विः । ऋ॒तस्य॑ । गर्भः॑ । निऽहि॑तः । य॒मा । प॒रः । यूना॑ । ह॒ । सन्ता॑ । प्र॒थ॒मम् । वि । ज॒ज्ञ॒तुः॒ । गुहा॑ । हि॒तम् । जनि॑म । नेम॑म् । उत्ऽय॑तम् ॥सम् । दक्षेण । मनसा । जायते । कविः । ऋतस्य । गर्भः । निहितः । यमा । परः । यूना । ह । सन्ता । प्रथमम् । वि । जज्ञतुः । गुहा । हितम् । जनिम । नेमम् । उत्यतम् ॥sam | dakṣeṇa | manasā | jāyate | kaviḥ | ṛtasya | garbhaḥ | ni-hitaḥ | yamā | paraḥ | yūnā | ha | santā | prathamam | vi | jajñatuḥ | guhā | hitam | janima | nemam | ut-yatam