Sukta 9.68
स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् । अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः ॥
स मा॒तरा॑ वि॒चर॑न्वा॒जय॑न्न॒पः प्र मेधि॑रः स्व॒धया॑ पिन्वते प॒दम् । अं॒शुर्यवे॑न पिपिशे य॒तो नृभि॒: सं जा॒मिभि॒र्नस॑ते॒ रक्ष॑ते॒ शिर॑: ॥
sá mā́tarā vicáran vājáyan ápaḥ prá médhiraḥ svadháyā pinvate padám | aṃśúr yávena pipiśe yató nṛ́bhiḥ sáṃ jāmíbhir násate rákṣate śíraḥ ||
Moving between the two Mothers, driving the waters to their increase, the wise one by his own law fills out the station. The ray is ground with the grain; then, with the men and with the kindred powers, he reaches the goal and guards the head— the summit of consciousness.
सः । मा॒तरा॑ । वि॒ऽचर॑न् । वा॒जऽय॑न् । अ॒पः । प्र । मेधि॑रः । स्व॒धया॑ । पि॒न्व॒ते॒ । प॒दम् । अं॒शुः । यवे॑न । पि॒पि॒शे॒ । य॒तः । नृऽभिः॑ । सम् । जा॒मिऽभिः॑ । नस॑ते । रक्ष॑ते । शिरः॑ ॥सः । मातरा । विचरन् । वाजयन् । अपः । प्र । मेधिरः । स्वधया । पिन्वते । पदम् । अंशुः । यवेन । पिपिशे । यतः । नृभिः । सम् । जामिभिः । नसते । रक्षते । शिरः ॥saḥ | mātarā | vi-caran | vāja-yan | apaḥ | pra | medhiraḥ | svadhayā | pinvate | padam | aṃśuḥ | yavena | pipiśe | yataḥ | nṛ-bhiḥ | sam | jāmi-bhiḥ | nasate | rakṣate | śiraḥ