Sukta 9.68
वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता । मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे ॥
वि यो म॒मे य॒म्या॑ संय॒ती मद॑: साकं॒वृधा॒ पय॑सा पिन्व॒दक्षि॑ता । म॒ही अ॑पा॒रे रज॑सी वि॒वेवि॑ददभि॒व्रज॒न्नक्षि॑तं॒ पाज॒ आ द॑दे ॥
ví yó mamé yamyā́ saṃyatī́ mádaḥ sākáṃvṛdhā́ páyasā pinvád ákṣitā | mahī́ apāré rájasī vívevidad abhívrájan ákṣitaṃ pā́ja ā́ dade ||
He who widens and measures out the twin yoked worlds—his ecstasy grows together, swelling with the milk of plenitude, inexhaustible. He discovers the vast two spaces without boundary; moving forth, he takes to himself the unfailing strength of light.
वि । यः । म॒मे । य॒म्या॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । मदः॑ । सा॒का॒म्ऽवृधा॑ । पय॑सा । पिन्व॑त् । अक्षि॑ता । म॒ही इति॑ । अ॒पा॒रे इति॑ । रज॑सी॒ इति॑ । वि॒ऽवेवि॑दत् । अ॒भि॒ऽव्रज॑न् । अक्षि॑तम् । पाजः॑ । आ । द॒दे॒ ॥वि । यः । ममे । यम्या । संयती इति सम्यती । मदः । साकाम्वृधा । पयसा । पिन्वत् । अक्षिता । मही इति । अपारे इति । रजसी इति । विवेविदत् । अभिव्रजन् । अक्षितम् । पाजः । आ । ददे ॥vi | yaḥ | mame | yamyā | saṃyatī itisam-yatī | madaḥ | sākām-vṛdhā | payasā | pinvat | akṣitā | mahī iti | apāre iti | rajasī iti | vi-vevidat | abhi-vrajan | akṣitam | pājaḥ | ā | dade