Sukta 9.68
स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्त्स्वादते हरिः । तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥
स रोरु॑वद॒भि पूर्वा॑ अचिक्रददुपा॒रुह॑: श्र॒थय॑न्त्स्वादते॒ हरि॑: । ति॒रः प॒वित्रं॑ परि॒यन्नु॒रु ज्रयो॒ नि शर्या॑णि दधते दे॒व आ वर॑म् ॥
sá rórūvad abhí pū́rvā acíkradad upā́ruhaḥ śráthayan svā́date háriḥ | tiráḥ pavítraṃ paríyann urú járyo ní śáryāṇi dadhate devá ā́ váram ||
He roars and cries out over the ancient foundations; mounting upward, the tawny one loosens and makes sweetness. Passing across the filter, moving around in wide courses, the god sets down his swift motions and comes to the chosen excellence.
सः । रोरु॑वत् । अ॒भि । पूर्वाः॑ । अ॒चि॒क्र॒द॒त् । उ॒प॒ऽआ॒रुहः॑ । श्र॒थय॑न् । स्वा॒द॒ते॒ । हरिः॑ । ति॒रः । प॒वित्र॑म् । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । नि । शर्या॑णि । द॒ध॒ते॒ । दे॒वः । आ । वर॑म् ॥सः । रोरुवत् । अभि । पूर्वाः । अचिक्रदत् । उपआरुहः । श्रथयन् । स्वादते । हरिः । तिरः । पवित्रम् । परियन् । उरु । ज्रयः । नि । शर्याणि । दधते । देवः । आ । वरम् ॥saḥ | roruvat | abhi | pūrvāḥ | acikradat | upa-āruhaḥ | śrathayan | svādate | hariḥ | tiraḥ | pavitram | pari-yan | uru | jrayaḥ | ni | śaryāṇi | dadhate | devaḥ | ā | varam