Sukta 9.67
पवमानास इन्दवस्तिरः पवित्रमाशवः । इन्द्रं यामेभिराशत ॥
पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शव॑: । इन्द्रं॒ यामे॑भिराशत ॥
pávamānāsa índavas tiráḥ pavítram āśávaḥ | índraṃ yā́mebhir āśata ||
The purifying Indus, swift in their movement, pass beyond the filter and reach Indra by their journeys—uniting the soul’s clarified delight with the power of luminous mastery.
पव॑मानासः । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ । इन्द्र॑म् । यामे॑भिः । आ॒श॒त॒ ॥पवमानासः । इन्दवः । तिरः । पवित्रम् । आशवः । इन्द्रम् । यामेभिः । आशत ॥pavamānāsaḥ | indavaḥ | tiraḥ | pavitram | āśavaḥ | indram | yāmebhiḥ | āśata