Sukta 9.66
महाँ असि सोम ज्येष्ठ उग्राणामिन्द ओजिष्ठः । युध्वा सञ्छश्वज्जिगेथ ॥
म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिन्द॒ ओजि॑ष्ठः । युध्वा॒ सञ्छश्व॑ज्जिगेथ ॥
mahā́m̐ asi soma jyéṣṭha ugrā́ṇām indo ójiṣṭhaḥ | yúdhvā sán cháśvaj jigetha ||
Thou art mighty, O Soma, the eldest among the fierce; O Indu, most puissant in energy. Fighting on, thou conquerest ever and again.
म॒हान् । अ॒सि॒ । सो॒म॒ । ज्येष्ठः॑ । उ॒ग्राणा॑म् । इ॒न्दो॒ इति॑ । ओजि॑ष्ठः । युध्वा॑ । सन् । शश्व॑त् । जि॒गे॒थ॒ ॥महान् । असि । सोम । ज्येष्ठः । उग्राणाम् । इन्दो इति । ओजिष्ठः । युध्वा । सन् । शश्वत् । जिगेथ ॥mahān | asi | soma | jyeṣṭhaḥ | ugrāṇām | indo iti | ojiṣṭhaḥ | yudhvā | san | śaśvat | jigetha