Sukta 9.66
पवस्व विश्वचर्षणेऽभि विश्वानि काव्या । सखा सखिभ्य ईड्यः ॥
पव॑स्व विश्वचर्षणे॒ऽभि विश्वा॑नि॒ काव्या॑ । सखा॒ सखि॑भ्य॒ ईड्य॑: ॥
pávasva viśva-carṣaṇe 'bhí viśvā́ni kā́vyā | sákhā sákhibhya ī́ḍyaḥ ||
Purify yourself, O one who moves among all peoples; enter into all inspired utterances—O friend, worthy of adoration by friends.
पव॑स्व । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒भि । विश्वा॑नि । काव्या॑ । सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥पवस्व । विश्वचर्षणे । अभि । विश्वानि । काव्या । सखा । सखिभ्यः । ईड्यः ॥pavasva | viśva-carṣaṇe | abhi | viśvāni | kāvyā | sakhā | sakhi-bhyaḥ | īḍyaḥ