Sukta 9.64
ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत् । सीदन्नृतस्य योनिमा ॥
ऊ॒र्मिर्यस्ते॑ प॒वित्र॒ आ दे॑वा॒वीः प॒र्यक्ष॑रत् । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥
ū́rmir yás te pavítra ā́ devā-vī́ḥ paryákṣarat | sī́dann ṛtásya yónim ā́ ||
The wave of thee that has flowed around the filter, moving godward, settles down into the womb of Ṛta—establishing the purified delight in the native seat of Truth within.
ऊ॒र्मिः । यः । ते॒ । प॒वित्रे॑ । आ । द॒व॒ऽअ॒वीः । प॒रि॒ऽअक्ष॑रत् । सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥ऊर्मिः । यः । ते । पवित्रे । आ । दवअवीः । परिअक्षरत् । सीदन् । ऋतस्य । योनिम् । आ ॥ūrmiḥ | yaḥ | te | pavitre | ā | dava-avīḥ | pari-akṣarat | sīdan | ṛtasya | yonim | ā